Valmiki Ramayana Ayodhya Kanda Sarga 32 Shloka 16
Original Shlokaकौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति। आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्।।2.32.15।। तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय। कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः।।2.32.16।।