Valmiki Ramayana Ayodhya Kanda Sarga 52 Shloka 31
Original Shlokaएवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे। अन्याश्च देवीस्सहिताः कैकेयीं च पुनः पुनः।।2.52.30।। आरोग्यं ब्रूहि कौशल्यामथ पादाभिवन्दनम्। सीताया मम चाऽऽर्यस्य वचनाल्लक्ष्मणस्य च।।2.52.31।।