Valmiki Ramayana Ayodhya Kanda Sarga 105 Shloka 27
Original Shlokaयथा काष्ठं च काष्ठं च समेयातां महार्णवे। समेत्य च व्यपेयातां कालमासाद्य कञ्चन।।2.105.26।। एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च। समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः।।2.105.27।।