Valmiki Ramayana Aranya Kanda Sarga 25 Shloka 34
Original Shlokaते समन्तादतिक्रुद्धा राघवं पुनरभ्ययुः।।3.25.34।। तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः। राक्षसैरुद्यतप्रासैश्शरवर्षाभिवर्षिभिः।।3.25.35।। स कृत्वा भैरवं नादमस्त्रं परमभास्वरम्। संयोजयत गान्धर्वं राक्षसेषु महाबलः।।3.25.36।।