Valmiki Ramayana Kishkindha Kanda Sarga 11 Shloka 45
Original Shlokaव्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः। तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत्।।4.11.45।। युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा। पपात च महाकायः क्षितौ पञ्चत्वमागतः4.11.46।।