Valmiki Ramayana Kishkindha Kanda Sarga 11 Shloka 84
Original Shlokaएवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः। राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया4.11.84।। तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्। असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान्4.11.85।।