Valmiki Ramayana Sundara Kanda Sarga 17 Shloka 28
Original Shlokaतां दृष्ट्वा हनुमान् सीतां मृगशाबनिभेक्षणाम्। मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः।।5.17.28।। दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः। संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्।।5.17.29।।