अस्माकमपि तावत्त्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।। 7.5.21 ।।
asmākamapi tāvattvaṃ gṛhaṃ kuru mahāmate | himavantamapāśritya merumandarameva vā | maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat || 7.5.21 ||