त्रिषु लोकेषु को ऽन्यो ऽस्ति यो न जानाति मे बलम् । भ्रातरं येन निर्जित्य विमानमिदमाहृतम् । ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ।। 7.18.10 ।।
triṣu lokeṣu ko 'nyo 'sti yo na jānāti me balam | bhrātaraṃ yena nirjitya vimānamidamāhṛtam | tato maruttaḥ sa nṛpastaṃ rāvaṇamathābravīt || 7.18.10 ||