क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ । रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह । ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। 7.31.11 ।।
kvārjuno nṛpatiḥ śīghraṃ samyagākhyātumarhatha | rāvaṇo 'hamanuprāpto yuddhepsurnṛvareṇa ha | mamāgamanamapyagre yuṣmābhiḥ sannivedyatām || 7.31.11 ||