कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् । श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम । यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ।। 7.54.8 ।।
kumāro 'yaṃ vasurnāma sa devo 'dyābhiṣicyatām | śvabhraṃ ca yatsukhasparśaṃ kriyatāṃ śilpibhirmama | yatrāhaṃ saṅkṣayiṣyāmi śāpaṃ brāhmaṇaniḥsṛtam || 7.54.8 ||