लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज । तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ।। 7.83.20 ।।
lokapīḍākaraṃ karma na kartavyaṃ vicakṣaṇaiḥ | bālānāṃ tu śubhaṃ vākyaṃ grāhya lakṣmaṇapūrvaja | tasmācchṛṇomi te vākyaṃ sādhu yuktaṃ mahāmate || 7.83.20 ||