प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि । गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ।। 7.111.12 ।।
prayāgādīni tīrthāni gaṅgādyāḥ saritastathā | naimiśādīnyaraṇyāni kurukṣetrādikānyapi | gatāni tena loke 'sminyena rāmāyaṇaṃ śrutam || 7.111.12 ||