Valmiki Ramayana Kishkindha Kanda Sarga 50 Shloka 15
Original Shlokaअस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः।।4.50.15।। जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः। नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः।।4.50.16।। तथा चेमे बिलद्वारि स्निग्धास्तिष्ठन्ति पादपाः।