Valmiki Ramayana Sundara Kanda Sarga 38 Shloka 58
Original Shlokaस्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः। ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्।।5.38.57।। पितरं मातरं चैव सम्मान्याभिप्रसाद्य च। अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः।।5.38.58।।